प्रातः स्मरण

पुण्य श्लोकों का स्मरण–

पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः ।

पुण्यश्लोको च वैदेही पुण्यश्लोको युधिष्ठिरः।।

अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः ।

कृपः परशुरामश्च सप्तैते चिरजीविनः।।

सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।

जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः ।।

कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।

ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ।।

प्रह्लादनारदपराशरपुण्डरीकव्यासाम्बरीष-

-शुकशौनकभीष्मदाल्भ्यान् ।

रुक्माङ्गदार्जुनवसिष्ठविभीषणादीन्-

पुण्यानिमान् परमभागवतान् नमामि ।।

पुण्य श्लोक

धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन ।

शत्रुर्विनश्यति धनंजयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः।।

वाराणस्यां भैरवो देवः संसारभयनाशनः ।

अनेकजन्मकृतं पापं स्मरणेन विनश्यति ।।

वाराणस्यां पूर्वभागे व्यासो नारायणः स्वयम् ।

तस्य स्मरणमात्रेण अज्ञानी ज्ञानवान् भवेत् ।।

वाराणस्यां पश्चिमे भागे भीमचण्डी महासती।

तस्याः स्मरणमात्रेण सर्वदा विजयी भवेत् ।।

वाराणस्यामुत्तरे भागे सुमन्तुर्नाम वै द्विजः ।

तस्य स्मरणमात्रेण निर्धनो धनवान् भवेत् ।।

वाराणस्यां दक्षिणे भागे कुक्कुटो नाम ब्राह्मणः।

तस्य स्मरणमात्रेण दुःस्वप्नः सुस्वप्नो भवेत् ।।

पंच स्मरण

उमा ऊषा च वैदेही रमा गङ्गेति पन्चकम् ।

प्रातरेव पठेन्नित्यं सौभाग्यं वर्धते सदा।।

सोमनाथो वैद्यनाथो धन्वन्तरिरथाश्विनौ ।

पन्चैतान् यः स्मरेन्नित्यं व्याधिस्तस्य न.जायते ।।

कपिला कालियोअ्नन्तो वासुकिस्तक्षकस्तथा ।

पन्चैतान् स्मरतो नित्यं विषबाधा न जायते ।।

हरं हरिं हरिश्चन्द्रं हनूमन्तं हलायुधम् ।

पन्चकं वै स्मरेन्नित्यं घोरसंकटनाशनम् ।।

आदित्यश्च उपेन्द्रश्च चक्रपाणिर्महेश्वरः ।

दण्डपाणिः प्रतापी स्यात् क्षुत्तृड्बाधा न बाधते ।।

वसुर्वरुणसोमौ च सरस्वती च सागरः ।

पन्चैतान् संस्मरेद् यस्तु तृषा तस्य न बाधते ।।

सनत्कुमारदेवर्षिशुकभीष्मप्लवङ्गमाः ।

पन्चैतान् स्मरतो नित्यं कामस्तस्य न बाधते ।।

रामलक्ष्मणौ सीता च सुग्रीवो हनुमान् कपिः ।

पन्चैतान् स्मरतो नित्यं महाबाधा प्रमुच्यते ।।

विश्वेशं माधवं ढुण्ढि दण्डपाणिं च भैरवम् ।

वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ।।

महर्षिर्भगवान् व्यासः कृत्वेमां संहितां पुरा ।

श्लोकैश्चतुर्भिर्धर्मात्मा पुत्रमध्यापयच्छुकम् ।।

माता पितृसहस्राणि पुत्रदाराशतानि च ।

संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ।।

हर्षस्थानसहस्राणि भयस्थानशतानि च ।

दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ।।

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।

धर्मादर्थश्च कामश्च स किमर्थं सेव्यते ।।

धर्म वंदन

न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः।

धर्मों नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ।।

इमा भारतसावित्रीं प्रातरुत्थाय यः पठेत् ।

स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ।।

द्वादश ज्योतिर्लिंग

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।

उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ।।

केदारं हिमवत्पृष्ठे डाकिन्यां भीमशङ्करं ।

वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ।।

वैद्यनाथं चिताभूमौ नागेशं दारुकावने ।

सेतुबन्धे च रामेशं घुश्मेशं च शिवालये ।।

द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।

सर्वपापविनिर्मुक्तः सर्वसिध्दिफलो भवेत् ।।

गणेशस्मरण

प्रातः स्मरामि गणनाथमनाथबन्धुं

सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।

उद्दण्डविघ्नपरिखण्डनचण्डदण्ड–

माखण्डलादिसुरनायकवृन्दवन्द्यम् ।।

विष्णुस्मरण

प्रातः स्मरामि भवभीतिमहार्तिनाशं

नारायणं गरुडवाहनमब्जनाभम् ।

ग्राहाभिभूतवरवारणमुक्तिहेतुं

चक्रायुधं तरुणवारिजपत्रनेत्रम् ।।

शिवस्मरण

प्रातः स्मरामि भवभीतिहरं सुरेशं

गङ्गाधरं बृषभवाहनमम्बिकेशम् ।

खट्वाङ्गशूलवरदाभयहस्तमीशं

संसाररोगहरमौषधमद्वितीयम् ।।

देवीस्मरण

प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां

सद्रत्नवन्मकरकुण्डलहारभूषाम् ।

दिव्यायुधोर्जितसुनीलसहस्रहस्तां

रक्तोत्पलाभचरणां भवतीं परेषाम् ।।

सूर्यस्मरण

प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं

रूपं हि मण्डलमृचोअ्थ तनुर्यजूंषि।

सामानि यस्य किरणाः प्रभवादिहेतुं

ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ।।

त्रिदेवों के साथ नवग्रहस्मरण

ब्रह्मा मुरारिस्रिपुरान्तकारी

भानुः शशी भूमिसुतो बुधश्च ।

गुरुश्च शुक्रः शनिराहुकेतवः

कुर्वन्तु सर्वे मम सुप्रभातम् ।।

ऋषि स्मरण

भृगुर्वसिष्ठः क्रतुरङ्गिराश्च

मनुः पुलस्त्यः पुलहश्च गौतमः ।

रैभ्यो मरीचिश्चयवनश्च दक्षः

कुर्वन्तु सर्वे मम सुप्रभातम् ।।

सनत्कुमारः सनकः सनन्दनः सनातनोअ्प्यासुरिपिङ्गलौ च ।

सप्त स्वराः सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम्।।

सप्तार्णावाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त ।

भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ।।

प्रकृतिस्मरण —

पृथ्वी सगन्धासरसास्तथापः

स्पर्शी च वायुर्ज्वलितं च तेजः ।

नभः सशब्दं महता सहैव

कुर्वन्तु सर्वे मम सुप्रभातम् ।।

इत्थं प्रभाते परमं पवित्रं पठेत् स्मरेद्वा श्रृणुयाच्च भक्त्या ।

दुःस्वप्ननाशस्त्विह सुप्रभातं भवेच्च नित्यं भगवत्प्रसादात् ।।

(Visited 40 times, 1 visits today)

Leave a Reply

Your email address will not be published. Required fields are marked *