प्रातः स्मरण

पुण्य श्लोकों का स्मरण– पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः । पुण्यश्लोको च वैदेही पुण्यश्लोको युधिष्ठिरः।। अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः।। सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् । जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः ।। कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ।। प्रह्लादनारदपराशरपुण्डरीकव्यासाम्बरीष- -शुकशौनकभीष्मदाल्भ्यान् । रुक्माङ्गदार्जुनवसिष्ठविभीषणादीन्- पुण्यानिमान् परमभागवतान् नमामि ।। पुण्य श्लोक धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन । शत्रुर्विनश्यति धनंजयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः।। वाराणस्यां भैरवो देवः संसारभयनाशनः । अनेकजन्मकृतं पापं स्मरणेन विनश्यति ।। वाराणस्यां पूर्वभागे व्यासो

» Read more